वांछित मन्त्र चुनें

ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना । वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुञ्चतम् ॥

अंग्रेज़ी लिप्यंतरण

tā vartir yātaṁ jayuṣā vi parvatam apinvataṁ śayave dhenum aśvinā | vṛkasya cid vartikām antar āsyād yuvaṁ śacībhir grasitām amuñcatam ||

पद पाठ

ता । व॒र्तिः । या॒त॒म् । ज॒युषा॑ । वि । पर्व॑तम् । अपि॑न्वतम् । श॒यवे॑ । धे॒नुम् । अ॒श्वि॒ना॒ । वृक॑स्य । चि॒त् । वरि॑काम् । अ॒न्तः । आ॒स्या॑त् । यु॒वम् । शची॑भिः । ग्र॒सि॒ताम् । अ॒मु॒ञ्च॒त॒म् ॥ १०.३९.१३

ऋग्वेद » मण्डल:10» सूक्त:39» मन्त्र:13 | अष्टक:7» अध्याय:8» वर्ग:17» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे अश्ववालों-राष्ट्रवालों-राष्ट्र के प्रधान पुरुषो ! (ता जयुषा वर्तिः-पर्वतं वियातम्) तुम दोनों पर्ववाले कठिन मार्ग को जयशील गतिप्रवाह से प्राप्त करो (शयवे-धेनुम्-अपिन्वतम्) शयनशील राजा के लिये वाणी को प्रचारित करो (युवम्) तुम (वृकस्य चित्-आस्यात्-वर्तिकाम्) छेदनकर्त्ता शासक या शत्रु के प्रमुख बन्धन से लोकवृत्ति को संग्राम में प्रवर्तमान चटका पक्षिणी की भाँति थोड़ी सेना को (अन्तः-ग्रस्ताम्) अधीन की हुई (शचीभिः-अमुञ्चतम्) बुद्धियुक्त क्रियाओं से छुड़ाते हो ॥१३॥
भावार्थभाषाः - राष्ट्र के प्रधान पुरुष राजा और मन्त्री को चाहिए कि उनकी प्रजा की वृत्ति या सेना अज्ञानवश शासनबन्धन में आ जाये अथवा शत्रु के बन्धन में आ जाये, तो उसे छोड़ने तथा छुड़वाने का प्रयत्न करें ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) अश्विनौ-अश्ववन्तौ राष्ट्रवन्तौ राष्ट्रस्य प्रधानपुरुषौ ! “अश्वस्य व्याप्तुमर्हस्य राज्यस्य” [ऋ० १।१२१।२ दयानन्दः] (ता जयुषा वर्तिः-पर्वतं वियातम्) तौ युवाम् वर्तिः-मार्गं पर्ववन्तं “अत्र ‘पर्वमरुद्भ्यां तप्’ इति वार्तिकेन तप् प्रत्ययो मत्वर्थे” [यजु० ३३।५० दयानन्दः] कठिनं जयशीलेन रथेन गतिप्रवाहेण प्राप्नुतम् (शयवे धेनुम्-अपिन्वतम्) शयनशीलाय राज्ञे वाचं प्रचारयतम् “धेनुः वाङ्नाम” [निघ० १।११] (युवम्) युवाम् (वृकस्य चित्-आस्यात्-वर्तिकाम्) लोकवृत्तिछेत्तुः शासकस्य शत्रोर्वा “यो वृश्चति छिनत्ति तस्य” [ऋ० १०।११७।१६ दयानन्दः] मुखात्-प्रमुखबन्धनात् संग्रामे प्रवर्तमानां “वर्तिकां संग्रामे प्रवर्तमानाम्” [ऋ० १।११७।१६ दयानन्दः] चटकापक्षिणीमिवाल्पसेनां वा “वर्तिकां चटकापक्षिणीमिव” [१।११६।१४] (अन्तः-ग्रस्ताम्) अधीनीकृताम् (शचीभिः-अमुञ्चतम्) प्रज्ञायुक्ताभिः क्रियाभिः खलु मोचयतम् ॥१३॥